सूत्रम्
वाहीकग्रामेभ्यश्च॥ ४।२।११६
काशिका-वृत्तिः
वाहीकग्रामेभ्यश् च ४।२।११७
वृद्धातित्येव। वाहीकग्रामवाचिभ्यः वृद्धेभ्यः ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका।
न्यासः
वाहीकग्रामेभ्यश्च। , ४।२।११६
बाल-मनोरमा
वाहीकग्रामेभ्यश्च १३२२, ४।२।११६
तदाह--वाहीकग्रामवाचिभ्य इति।
तत्त्व-बोधिनी
वाहीकग्रामेभ्यश्च १०५५, ४।२।११६
वृद्धादेवेति। "वृद्धाच्चेत्प्राचमेवे"ति विपरीतनियमस्तु न भवति,अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याऽभावात्।